|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.53. अध्यायः 053
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रेण कुरून्प्रति पाण्डवानां बलवत्सहायसंपन्नत्वादिगुणसमृद्धिकथनपूर्वकं शान्त्यर्थं स्वेन प्रयतनाभिधानम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-53-0(33866)
धृतराष्ट्र उवाच। 5-53-0x(3560)
यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः।
तथौभिसरास्तेषां त्यक्तात्मानो जये धृताः ॥ 5-53-1(33867)
......हि पराक्रान्तानाचक्षीथाः परान्मम।
पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान्॥ 5-53-2(33868)
यश्च सेन्द्रानिमाँल्लोकानिच्छन्कुर्याद्वशे बली।
स स्रष्टा जगतः कृष्णः पाण्डवानां जये धृतः ॥ 5-53-3(33869)
समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान्।
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥ 5-53-4(33870)
धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः ।
मामकेषु रणं कर्ता बलेषु परमास्त्रवित् ॥ 5-53-5(33871)
युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात्।
मयाभ्यां भीमसेनाच्च भयं मे तात जायते ॥ 5-53-6(33872)
अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा ।
न मे सैन्यास्तरिष्यन्ति ततः क्रोशामि सञ्जय ॥ 5-53-7(33873)
दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी।
मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः ॥ 5-53-8(33874)
मित्रामात्यैः सुसंपन्नः संपन्नो युद्धयोजकैः ।
भ्रातृभिः श्वशुरैर्वीरैरुपपन्नो महारथैः ॥ 5-53-9(33875)
धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः।
अनुशंसो वदान्यश्च हीमान्सत्यपराक्रमः ॥ 5-53-10(33876)
बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः ।
तं सर्वगुणसंपन्नं समिद्धमिव पावकम् ॥ 5-53-11(33877)
तपन्तमभि को मन्दः पतिष्यति पतङ्गवत्।
पाण्डवाग्निमनावार्यं मुमूर्षुर्नष्टचेतनः ॥ 5-53-12(33878)
तनुरुच्चः शिखी राजा मिथ्योपचरितो मया।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ 5-53-13(33879)
तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत।
युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् ॥ 5-53-14(33880)
एषा मे परमा बुद्धिर्यया शाम्यति मे मनः ।
यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे ॥ 5-53-15(33881)
न तु नः क्लिश्यमानानामुपेक्षेत युधिष्ठिरः।
जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम् ॥ ॥ 5-53-16(33882)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि त्रिपञ्चाशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-53-1 अभिसराः पुरोगाः ॥ 5-53-10 नैभृत्येन मन्त्रगुप्त्या ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|